(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.157. अध्यायः 157
Mahabharata - Vana Parva - Chapter Topics
गन्धमादनादुत्तरं देशं जिगमिषुणा युधिष्ठिरेण आकाशवाणीश्रवणात्ततः प्रतिनिवृत्य अनुचरैःसह नरनारायणाश्रमं प्रति पुनरागमनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-157-0x(2285)(21858)
तस्मिन्निवसमानोऽथ धर्मराजो युधिष्ठिरः।
आमन्त्र्य सहितान्भ्रातृनित्युवाच सहद्विजान् ॥ 3-157-1(21859)
दृष्टानि तीर्थान्यस्माभिः पुण्यानि च शिवानि च।
मनसो ह्लादनीयानि वनानि च पृथक्पृथक् ॥ 3-157-2(21860)
देवैः पूर्वं विचीर्णानि मुनिभिश्च महात्मभिः।
यथाक्रममशेषेण द्विजैः संपूजितानि च ॥ 3-157-3(21861)
ऋषीणां पूर्वचरितं तपोधर्मविचेष्टितम्।
राजर्षीणां च चरितं कथाश्च विविधाः शुभाः ॥ 3-157-4(21862)
शृण्वानास्तत्रतत्र स्म आश्रमेषु शिवेषु च।
अभिषेकं द्विजैः सार्धं कृतवन्तो विशेषतः ॥ 3-157-5(21863)
अर्चिताः सततं देवाः पुष्पैरद्भिः सदा च वः।
यथालब्धैर्मूलफलैः पितरश्चापि तर्पिताः ॥ 3-157-6(21864)
पर्वतेषु च रम्येषु सर्वेषु च सरस्सु च।
उदधौ च महापुण्ये सूपस्पृष्टं महात्मभिः ॥ 3-157-7(21865)
इला सरस्वती सिन्धुर्यमुना नर्मदा तथा।
नानातीर्थेषु रम्येषु सूपस्पृष्टं सह द्विजैः ॥ 3-157-8(21866)
गङ्गाद्वारमतिक्रम्य बहवः पर्वताः शुभाः।
हिमवान्पर्वतश्चैव नानाद्विजगणायुतः ॥ 3-157-9(21867)
विशाला बदरी दृष्टा नरनारायणाश्रमः।
दिव्यपुष्करिणी दृष्टा सिद्धदेवर्षिपूजिता ॥ 3-157-10(21868)
यथाक्रमविशेषेण सर्वाण्यायतनानि च।
दर्शितानि द्विजेनद्रेण लोमशेन महात्मना ॥ 3-157-11(21869)
इमं वैश्रवणावासं दुर्गमं गन्धमादनम्।
कथं भीम गमिष्यामो मतिरत्र विधीयताम् ॥ 3-157-12(21870)
वैशम्पायन उवाच। 3-157-13x(2286)
एवं ब्रुवति राजेन्द्रे वागुवाचाशरीरिणी।
न शक्यो दुर्गमो गन्तुं पर्वतो गन्धमादनः ॥ 3-157-13(21871)
अननैव पथा राजन्प्रतिगच्छ यथागतम्।
नरनारायणस्थानं बदरीत्यभिविश्रुतम् ॥ 3-157-14(21872)
तस्माद्यास्यसि कौन्तेय सिद्धचारणसेवितम्।
बहुपुष्पफलं रम्यमाश्रमं वृषपर्वणः ॥ 3-157-15(21873)
अतिक्रम्य च तं पार्थ त्वार्ष्टिषेणाश्रमे वसेः।
ततो द्रक्ष्यसि कौन्तेय निवेशं धनदस्य च ॥ 3-157-16(21874)
एतस्मिन्नन्तरे वायुर्दिव्यगन्धवहः शुभः।
भनःप्रह्लादनः शीतः पुष्पवर्षं ववर्ष वै ॥ 3-157-17(21875)
तच्छ्रुत्वा दिव्यमाकाशाद्विस्मयः समपद्यत।
ऋषीणां ब्राह्मणानां च पार्थिवानां विशेषतः ॥ 3-157-18(21876)
श्रुत्वा तन्महदाश्चर्यं द्विजो धौम्यस्त्वभाषत।
न शक्यमुत्तरं गन्तुं प्रतिगच्छाम पाण्डव ॥ 3-157-19(21877)
ततो युधिष्ठिरो राजा विस्मयोत्फुल्ललोचनः।
[प्रत्यागम्य पुनस्तं तु नरनारायणाश्रमम् ॥] 3-157-20(21878)
भीमसेनादिभिः सर्वैर्भ्रातृभिः परिवारितः।
पाञ्चाल्या ब्राह्मणैश्चैव न्यवसत्सुसुखं तदा ॥ 3-157-21(21879)

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्तपञ्चाशदधिकशततमोऽध्यायः ॥ 157 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.